|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.75. अध्यायः 075
Mahabharata - Drona Parva - Chapter Topics
श्रीकृष्णेनार्जुनम्प्रति द्रोणादिभिर्जयद्रथरक्षणप्रतिज्ञादिकथनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-75-0x(4456)(47524)
प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा।
वासुदेवो महाबाहुर्धनञ्जयमभाषत॥ 7-75-1(47525)
भ्रातॄणां मतमज्ञाय त्वया वाचा प्रतिश्रुतम्।
सैन्धवं चास्मि हन्तेति तत्साहसमिदं कृतम्॥ 7-75-2(47526)
असम्मन्त्र्य मया सार्धमतिभारोऽयमुद्यतः।
कथं तु सर्वलोकस्य नावहास्या भवेमहि॥ 7-75-3(47527)
धार्तराष्ट्रस्य शिबिरे ये तु प्रणिहिताश्चराः।
त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः॥ 7-75-4(47528)
त्वया वै सम्प्रतिज्ञाते सिन्धुराजवधे प्रभो।
सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः॥ 7-75-5(47529)
तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः।
नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः॥ 7-75-6(47530)
सुमहाञ्शब्दसम्पातः कौरवाणां महाभुज।
आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः॥ 7-75-7(47531)
अभिमन्योर्वधं श्रुत्वा ध्रुवमार्तो धनञ्जयः।
रात्रौ निर्यास्यति क्रोधातिति मत्त्वा व्यवस्थिताः॥ 7-75-8(47532)
तैश्चारेभ्य इयं कृत्स्ना श्रुता सत्यवतस्तव।
प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन॥ 7-75-9(47533)
ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव।
आसन्सुयोधनामात्याः स च राजा जयद्रथः॥ 7-75-10(47534)
अथोत्थाय सहामात्यैर्दीनः स्वशिविरात्किल।
अयात्सौवीरसिन्धूनामीश्वरो राजसंसदम्॥ 7-75-11(47535)
स मन्त्रकाले संमन्त्र्य सर्वां नैश्रेयसीं क्रियाम्।
सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि॥ 7-75-12(47536)
मामसौ पुत्रहन्तेति श्वोऽभियाता धनञ्जयः।
प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम॥ 7-75-13(47537)
तां न देवा न गन्धर्वा नासुरोरगराक्षसाः।
उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः॥ 7-75-14(47538)
ते मां रक्षत सङ्ग्रामे मा वो मूर्ध्नि धनञ्जयः।
पदं कृत्वाऽऽप्नुयाल्लक्ष्यं युक्तं प्रतिविधीयताम्॥ 7-75-15(47539)
अथ रक्षा न मे सम्यक्क्रियते कुरुनन्दन।
अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति॥ 7-75-16(47540)
एवमुक्तस्त्ववाक्शीर्षो विमनाः ससुयोधनः।
श्रुत्वा तं समयं तस्य ध्यानमेवान्वपद्यत॥ 7-75-17(47541)
तमार्तमभिसम्प्रेक्ष्य राजा किल स सैन्धवः।
मृदु चात्महितं चैव सापेक्षमिदमुक्तवान्॥ 7-75-18(47542)
नेह पश्यामि भवतां तथावीर्यं धनुर्धरम्।
योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे॥ 7-75-19(47543)
वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः।
कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः॥ 7-75-20(47544)
महेश्वरोऽपि पार्थेन श्रूयते योधिनः पुरा।
पदातिना महावीर्यो गिरौ हिमवति प्रभुः॥ 7-75-21(47545)
दानवानां सहस्राणि हिरण्यपुरवासिनाम्।
जघानैकरथेनैव देवराजप्रचोदितः॥ 7-75-22(47546)
समायुक्तो हि कौन्तेयो बासुदेवेन धीमता।
सामरानपि लोकांस्त्रीन्हन्यादिति मतिर्मम॥ 7-75-23(47547)
सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना।
द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे॥ 7-75-24(47548)
श्रीभगवानुवाच। 7-75-25x(4457)
स राज्ञा स्वयमाचार्यो भृशमत्रार्थितोऽर्जुन।
संविधानं च विहितं रथाश्च किल सज्जिताः॥ 7-75-25(47549)
कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः।
कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः॥ 7-75-26(47550)
शकटः पद्मकश्चार्धो व्यूहो द्रोणेन निर्मितः।
पद्मकर्णिकमध्यस्थः सूची पार्श्वे जयद्रथः॥ 7-75-27(47551)
स्थास्यते रक्षिते वीरैः सिन्धुराट् स सुदुर्मदः।
धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथौरसे॥ 7-75-28(47552)
अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः।
एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः॥ 7-75-29(47553)
तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय।
सहिता हि नरव्याघ्र न शक्या जेतुमञ्जसा॥ 7-75-30(47554)
भूयस्तु मन्त्रयिष्यामि नीतिमात्महिताय वै।
मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये॥ ॥ 7-75-31(47555)
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि पञ्चसप्ततितमोऽध्यायः॥ 75 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-75-2 अशब्दो निषेधे। अज्ञात्वेत्यर्थः॥ 5-75-25 संविधानं प्रतिविधानम्॥ 5-75-27 पद्मव्यूहः पश्चार्धे पश्चाद्भागे यस्य। सूची सूचीमुखो व्यूहः॥ 5-75-75 पञ्चसप्ततितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|